梵语心经[略本·天城体]当前位置: 网站首页 > 语法学习 > 梵语

梵语心经[略本·天城体]

时间: 2017-01-13 11:03:39     来源: 华梵网

नमःसर्वज्ञाय

आर्यावलोकितेश्वर बोधिसत्त्वो गंभीरायांप्रज्ञापारमितायां चर्यांचरमाणो

व्यवलोकयतिस्म पञ्चस्कन्धाःतांश्चस्वभाव शून्यान्पश्यतिस्म

इहशारिपुत्र रूपं शून्यता शून्यतैवरूपं रूपान्नपृथक्शून्यता

शून्यतायानपृथग्रूपं यद्रूपंसाशून्यताया शून्यतातद्रूपं एवमेव

वेदनासंज्ञा संस्कारविज्ञानानि

इहशारिपुत्र सर्वधर्माःशून्यतालक्षण अनुत्पन्नाअनिरुद्धा

अमलानविमलानोना नपरिपूर्णाः तस्माच्छारिपुत्र

शून्यतायां नरूपंनवेदना नसंज्ञानसंस्कार नविज्ञानानि

नचक्षुःश्रोत्रघ्राणजिह्वा कायमनांसि नरूपशब्दगन्धरस

स्प्रष्टव्यधर्माः नचक्षुर्धातु र्यावन्नमनोविज्ञानधातुः

नविद्यानाविद्यानविद्याक्षयो नाविद्याक्षयो यावन्नजरामरणं

नजरामरणक्षयो नदुःखसमुदयनिरोधमार्गा

नज्ञानंनप्राप्तिर प्राप्तित्वेनबोधिसत्त्वस्य

प्रज्ञापारमितामाश्रित्य विहरत्यचित्तावरणः

चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः

त्र्यध्वव्यवस्थिताःसर्वबुद्धाः प्रज्ञापारमितामाश्रित्या

नुत्तरांसम्यक्सं बोधिमभिसंबुद्धाः

तस्माज्ज्ञातव्योप्रज्ञापारमिता महामन्त्रोमहाविद्यामन्त्रो

नुत्तरमन्त्रोसमसममन्त्रः सर्वदुःखप्रशमनः

सत्यममिथ्यत्वात् प्रज्ञापारमितायांउक्तोमन्त्रः

तद्यथा गतेगतेपारगतेपारसंगतेबोधिस्वाहा।

इतिप्रज्ञापारमिता हृदयंसमाप्तं ॥


北京馨逸文化传播有限公司  邮箱:om@sanskrit-input.com   京ICP备10535758号 Copyright © 2016-2017,ALL Rights Reserved sanskrit-input.com